॥ श्री हनुमत स्तवन ॥
प्रनवउँ पवन कुमार खेल बन पावक ज्ञान घन ।
जासु हृदय आगार बसहिं राम सर चाप धर ॥
अतुलितबलधामं हेमशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।
सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥
गोष्पदीकृतवारीशं मशकीकृतराक्षसम् ।
रामायणमहामालारत्नं बन्देनिलात्मजम् ॥
अंजनानन्दनम् वीरम् जानकीशोकनाशनम् ।
कपीशमक्षहन्तारम् बन्दे लङ्काभयंकरम् ॥
उल्लङ्घ्य सिन्धोः सलिलं सलीलम् यः शोकवह्निं जनकात्मजायाः ।
आदाय तेनैव ददाह लंका नमामि तं प्रांजलिरांजनेयम् ॥
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं ।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ॥
आंजनेयमतिपाटलाननं कांचनाद्रिकमनीयविग्रहम् ।
पारिजाततरुमूलवासिनम भावयामि पवमाननन्दनम् ॥
यत्र यत्र रगुनाथ कीर्तनं तत्र तत्र कृतमस्तकाञ्जिलाम ।
वाष्पवारिपरिपूर्णलोचनम् मारुतिं नमत राक्षसान्तकम् ॥